Ganesh Prarthna
नागाननाय श्रुतियज्ञविभूषिताय, गौरीसुताय गणनाथ नमो नमस्ते !!
भक्तार्तिनाशनपराय गनेशाश्वराय, सर्वेश्वराय शुभदाय सुरेश्वराय!
विद्याधराय विकटाय च वामनाय , भक्त प्रसन्नवरदाय नमो नमस्ते !!
नमस्ते ब्रह्मरूपाय विष्णुरूपाय ते नम:! नमस्ते रुद्राय्रुपाय करिरुपाय ते नम: !!
विश्वरूपस्वरूपाय नमस्ते ब्रह्मचारणे! भक्तप्रियाय देवाय नमस्तुभ्यं विनायक !!
लम्बोदर नमस्तुभ्यं सततं मोदकप्रिय! निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा !!
त्वां विघ्नशत्रुदलनेति च सुन्दरेति , भक्तप्रियेति सुखदेति फलप्रदेति !
विद्याप्रत्यघहरेति च ये स्तुवन्ति, तेभ्यो गणेश वरदो भव नित्यमेव !!
गणेशपूजने कर्म यन्न्यूनमधिकं कृतम ! तेन सर्वेण सर्वात्मा प्रसन्नोSस्तु सदा मम !!
प्रणम्य शिरसा देवं गौरीपुत्रं विनायकम ! भक्तवासं स्मरेन्नित्यमायू :कामार्थसिद्धये !!
प्रथमं वक्रतुंडम च एकदंतं द्वितीयकम ! तृतीयं कृष्णपिंगाक्षम गजवक्त्रं चतुर्थकम !!
लम्बोदरम पंचमं च षष्ठम विकटमेव च ! सप्तमं विघ्नराजं च धूम्रवर्ण तथाष्टमम !!
नवमं भालचन्द्रं च दशम तू विनायकम ! एकादशं गणपति द्वादशं तू गजाननम!!
द्वादशैतानि नामानि त्रिसन्धयं यःपठेन्नरः!! न च विघ्नभयं तस्य सर्वसिद्धकरं प्रभो !!
विद्यार्थी लभते विद्यां धनार्थी लभते धनम !!
गणनायक, गणाधीप, गणपति, गौरिसुत, गजवदन । गणनाथ, गणेश, गणराज, गजानन, गिरिजानंदन ।।
विघ्नराज, विघ्नहर्त्ता, विघ्ननाशक, विनायक, वक्रतुण्ड । मूषकवाहन, मोदकप्रिय, मोददाता, महाकाय, लमतुण्ड ।।
लम्बोदर, एकदंत, जगवन्द्य, हेरम्ब, भवानीनंदन । ऋद्धि-सिद्धि के दाता, शंकरसुवन तव वंदन अभिनन्दन ।।